Bihar Board Notes
Home> Class-10> Sanskrit>Q 216


Que : 216. अधोलिखित गद्यांशों को पढ़कर उसपर आधारित प्रश्नों के उत्तर निर्देशानुसार दें-

हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति। अस्य शिखराणि सर्ववर्षम् हिमेन आच्छादितानि सन्ति। अतएव तु अयं हिमस्य आलयः इति हिमालयः कथ्यते। ग्रीष्मस्य तापेन जनाः प्रतिवर्ष ग्रीष्मे तत्र गच्छन्ति। अनेके रुग्णाः जनाः अपि तस्य पवित्रे वातावरणे स्वस्था: भवन्ति। अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति। प्रतिवर्ष भक्ताः अत्र आगच्छन्ति। बद्रीनाथे - केदारनाथे च मन्दिरेषु ईश्वरस्य दर्शनं कुर्वन्ति। हिमालयात् एव गंगा, शतद्रुः चन्द्रभागाः इत्यादयः नद्यः प्रवहन्ति। हिमालयः प्रहरी इव भारतं रक्षति। अस्य रक्षणे एवं भारतस्य रक्षणम्।


(i) एकपदेन उत्तरत-


(क) भारतस्य उत्तरदिशायां कः अस्ति ?

उत्तर-
हिमालयः



(ख) अस्य रक्षणे कस्य रक्षणम् ?

उत्तर-
भारतस्




(ii) पूर्णवाक्येन उत्तरत-


(क) हिमालयः कुत्र स्थितः अस्ति ?

उत्तर-
हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति।



(ख) भक्ताः मन्दिरेषु कस्य दर्शनं कुर्वन्ति ?

उत्तर-
भक्ताः मन्दिरेषु ईश्वरस्य दर्शनं कुर्वन्ति।




(iii) अस्य गद्यांशस्य उपयुक्तं शीर्षकम् लिखत ।


उत्तर-
हिमालयः




Class-10 Sanskrit Notes -